|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.3. अध्यायः 003
Mahabharata - Drona Parva - Chapter Topics
कर्णेन भीष्ममेत्य युद्धानज्ञायाचनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-1-0x(4267)(44741)
शरवल्पे महात्मानं शयानममितौजसम्।
महाशतसमूंहन समुद्रमिव शोषितम्॥ 7-1-1(44742)
दृष्ट्वा पितामहं भीष्मं सर्वक्षत्रान्तकं गुरुम्।
दिव्यैरस्त्रैर्महेष्वासं पातितं सव्यसाचिना।
जयाणा तव पुत्राणां संभग्ना शर्म वर्म च॥ 7-1-2(44743)
अपाxणामिव द्वीपमगाधे गाधमिच्छताम्।
स्तोतमा यामुनेनेव शरौघेण परिप्लुतम्॥ 7-1-3(44744)
महान्तमिव मैनाकमहार्यं भुवि पातितम्।
तxxxयुतमिवादित्यं शक्रस्येवामृतं हृतम्॥ 7-1-4(44745)
शतक्रतुभिवाचिन्त्यं पुरा वृत्रेणा निर्जितम्।
महोनं सर्वसैन्यस्य युधि भीष्मं निपातितम्॥ 7-1-5(44746)
ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम्।
धनन्तयशरैर्व्याप्तं पितरं ते महाव्रतम्। 7-1-6(44747)
तं वीरशयने वीरं शयानं पुरुषर्पभम्।
भीष्ममाधिरथिर्दृष्ट्वा भरतानां पितामहम्॥ 7-1-7(44748)
प्रस्कन्द्य स रथात्तूर्णं शोकमोहपरिप्लुतः।
`पद्य्भामेव जगामार्तो बाष्पव्याकुललोचनः'॥
अभिवाद्याञ्जलिं बद्ध्वा वन्दमानोऽभ्यभाषत॥ 7-1-8(44749)
कर्णोऽहमस्मि भद्रं ते वद मामभि भारत।
पुण्यया क्षेमया वाचा चक्षुषा चावलोकय॥ 7-1-9(44750)
न नूनं सुकृतस्येह फलं कश्चित्समश्नुते।
यत्र धर्मपरो वृद्धः शेते भुवि भवानिह॥ 7-1-10(44751)
कोशसञ्चयने मन्त्रे व्यूहे प्रहरणेषु च।
नाहमन्यं प्रपश्यामि कुरूणां कुरुपुङ्गव॥ 7-1-11(44752)
बुद्ध्या विशुद्धया युक्तो यः कुरूंस्तारयेद्भयात्।
योधांस्त्वमप्लुवे हित्वा पितुलोकं गमिष्यसि॥ 7-1-12(44753)
अद्यप्रभृति सङ्क्रुद्धा व्याघ्रा इव मृगक्षयम्।
पाण्डवा भरतश्रेष्ठ करिष्यन्ति कुरुक्षयम्॥ 7-1-13(44754)
अद्य गाण्डीवधोपेण वीर्यज्ञाः सव्यसाचिनः।
कुरवः सन्त्रसिष्यन्ति वज्रघोषादिवासुराः॥ 7-1-14(44755)
अद्य गाण्डीवमुक्तानामशनीनामिव xxxः।
त्रासयिष्यति बाणानां कुरूनन्यांश्च पथिxx 7-1-15(44756)
समिद्धोऽग्निर्यथा वीर महाज्वालो द्रुमान्दxxxत्।
धार्तराष्ट्राः इधक्ष्यन्ति तथा बाणाः किरीटिxx 7-1-16(44757)
येन येन प्रसरतो वाय्वग्नी सहितौ वने।
तेन तेन प्रदहतो भूरिगुल्मतृणद्रुमान्॥ 7-1-17(44758)
यादृशोऽग्निः समुद्भूतस्तादृक्पार्थो न संशयः।
यथा वायुर्नरव्याघ्र तथा कृष्णो संशयः॥ 7-1-18(44759)
xxदतः पाञ्चजन्यस्य रसतो गाण्डिवस्य च।
श्रुत्वा सर्वाणि सैन्यानि त्रासं यास्यन्ति भारत। 7-1-19(44760)
कपिध्वजस्योत्पततो रथस्यामित्रकर्शिनः।
शब्दं सोढुं न शक्ष्यन्ति त्वामृते वीर पार्थिवाः॥ 7-1-20(44761)
को ह्यर्जुनं योधयितुं त्वदन्यः पार्थिवोऽर्हति।
यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः। 7-1-21(44762)
अमानुषैश्च संग्रामं त्र्यम्बकेण महात्मना।
तस्माच्चैव वरं प्राप्तो दुष्प्रापश्चाकृतात्मभिः॥ 7-1-22(44763)
कोऽन्यः शक्तो रणे जेतुं पूर्वं यो न जितस्त्वया।
जितो येन रणे रामो भवता वीर्यशालिना। 7-1-23(44764)
क्षत्रियान्तकरो घोरो देवदानवदर्पहा।
`सोप्यद्याभिहतः शेते शरैः प्रोतः शिखण्डिना॥ 7-1-24(44765)
तमद्याहं पाण्डवं युद्धशौण्डममृष्यमाणो भवता चानुशिष्टः।
आशीविषं हष्टिहरं सुघोरं शूरं शक्ष्याम्यस्त्रबलान्निहन्तुम्॥ ॥ 7-1-25(44766)
इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि तृतीयोऽध्यायः॥ 3 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-1-6 ककुदं श्रेष्ठम् 5-1-19 xxxतः शब्दं कुर्वतः॥ 5-1-22 अमानुषैर्निवातकवचादिभिः॥ 5-1-3 तृतीयोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|